उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑ह्य॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि
uśík tvaṃ deva soma agnéḥ priyáṃ pā́tho ’pī́hi vaśī́ tvaṃ deva soma índrasya priyáṃ pā́tho ’pī́hy asmátsakhā tvaṃ deva soma víśveṣāṃ devā́nāṃ priyáṃ pā́tho ’pī́hi
你热切啊,神苏摩:请来此,作阿耆尼所喜之饮。你有主宰之力啊,神苏摩:请来此,作因陀罗所喜之饮。你是我们的朋友啊,神苏摩:请来此,作一切诸神所喜之饮。
उ॒शिक् । त्वम् । दे॒व । सोम॑ । अ॒ग्नेः । प्रि॒यम् । पाथः॑ । अपि॑ । इ॒हि । व॒शी । त्वम् । दे॒व । सोम॑ । इन्द्र॑स्य । प्रि॒यम् । पाथः॑ । अपि॑ । इ॒हि । अ॒स्मत्-स॑खा । त्वम् । दे॒व । सोम॑ । विश्वे॑षाम् । दे॒वानाम् । प्रि॒यम् । पाथः॑ । अपि॑ । इ॒हि