य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्त॑: । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा
yajñó devā́nāṃ prátyeti sumnám ādityāso bhavatā mṛḍayántaḥ | ā́ vo ’rvācī́ sumatír vavṛtyād áhoś cid yā́ varivo-víttarā́sad ādityébhyas tvā
祭献为求恩惠而趋向诸天;噢阿底提耶诸神,愿你们慈和怜悯。愿你们的善意转向我们而来;那赐予广阔余地者,愿它整日与我们同坐:为阿底提耶诸神而献上你!
यज्ञः । देवानाम् । प्रति-एति । सुम्नम् । आदित्याः । भवत । मृडयन्तः । आ । वः । अर्वाची । सुमतिः । ववृत्यात् । अहोः । चित् । या । वरिवः-वित्तरात् । सत् । आदित्येभ्यः । त्वा ।