इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् । उ॒प॒या॒मगृ॑हीतो॒ सीन्द्रा॑य त्वा षोड॒शिने॑ । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑
índram íd dhárī vahato ’pratidhṛ́ṣṭaśavasaṃ | ṛ́ṣīṇāṃ ca stutī́r úpa yajñáṃ ca mā́nuṣāṇām | upayā́magṛhīto ’sī́ndrāya tvā ṣoḍaśíne | eṣá te yónir índrāya tvā ṣoḍaśíne
因陀罗啊,确是那两匹枣色骏马载你而来——你之威力不可抗拒——趋向诸仙圣的赞颂,亦趋向人间的祭献。以“优帕耶摩(Upayāma)”之摄取,我取汝奉于因陀罗,噢“十六杯”(Ṣoḍaśin);此乃汝之胎藏(yoni)——奉于因陀罗,噢“十六杯”(Ṣoḍaśin)。
इन्द्रम् । इत् । हरी । वहतः । अप्रति-धृष्ट-शवसम् । ऋषीणाम् । च । स्तुतीः । उप । यज्ञम् । च । मानुषाणाम् । उप-याम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने