अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं वाजा॑न्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑
ayáṃ no agnír várivaskṛṇotu ayáṃ mṛ́dhaḥ púra etu prabhíndan | ayáṃ vā́jāñ jayatu vā́jasātāv ayáṃ śátrūñ jayatu jarhṛṣāṇáḥ svā́hā ||
愿此我等之阿耆尼(Agni)为我等开辟宽广之途;愿他在前破除诸敌害。愿他于求力得胜之际赢得诸奖赏;愿他欢欣奋起,征服我等之仇敌——娑嚩诃(Svāhā)!
अयम् । नः । अग्निः । वरिवः-कृणोतु । अयम् । मृधः । पुरः । एतु । प्र-भिन्दन् । अयम् । वाजान् । जयतु । वाज-सातौ । अयम् । शत्रून् । जयतु । जर्हृषाणः । स्वाहा ।