आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ । उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा
ā́ ghā́ yé agním indháte stṛṇánti barhír ānuṣák | yéṣām índro yúvā sákhā́ | upayā́ma-gṛhīto’sy agnī́ndrābhyāṃ tváiṣá te yónir agnī́ndrābhyāṃ tvā
诚然,那些点燃阿耆尼(Agni)者,依次铺陈祭草(barhis)者——其间因陀罗(Indra)为青春之友。汝以“优帕亚摩”(Upayāma)而被摄取:为阿耆尼与因陀罗而取汝!此乃汝之胎座(yoni);为阿耆尼与因陀罗而取汝!
आ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् । येषाम् । इन्द्रः । युवा । सखा । उप-याम-गृहीतः । असि । अग्नी-इन्द्राभ्याम् । त्वा । एषः । ते । योनिः । अग्नी-इन्द्राभ्याम् । त्वा