उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वा । उपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वा । उपया॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वा । उपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वा । उपया॒मगृ॑हीतोऽसि॒ नभ॑से त्वा । उपया॒मगृ॑हीतोऽसि नभ॒स्या॒य त्वा । उपया॒मगृ॑हीतोऽसी॒षे त्वा । उपया॒मगृ॑हीतोऽस्यू॒र्जे त्वा । उपया॒मगृ॑हीतोऽसि॒ सह॑से त्वा । उपया॒मगृ॑हीतोऽसि सह॒स्या॒य त्वा । उपया॒मगृ॑हीतोऽसि॒ तप॑से त्वा । उपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वा । अᳪहसस्प॒तये॑ त्वा ॥
upayā́ma-gṛhīto ’si mádhave tvā | upayā́ma-gṛhīto ’si mā́dhavāya tvā | upayā́ma-gṛhīto ’si śukrā́ya tvā | upayā́ma-gṛhīto ’si śúcaye tvā | upayā́ma-gṛhīto ’si nábhase tvā | upayā́ma-gṛhīto ’si nabhasyā́ya tvā | upayā́ma-gṛhīto ’sī́ṣe tvā | upayā́ma-gṛhīto ’sy ū́rje tvā | upayā́ma-gṛhīto ’si sáhase tvā | upayā́ma-gṛhīto ’si sahasyā́ya tvā | upayā́ma-gṛhīto ’si tápase tvā | upayā́ma-gṛhīto ’si tapasyā́ya tvā | aṃhásaḥ pátaye tvā ||
你以“乌帕亚摩”(Upayāma)而被摄取——为“玛杜”(Madhu)而摄取你!你以Upayāma而被摄取——为“玛达瓦”(Mādhava)而摄取你!你以Upayāma而被摄取——为“舒克拉”(Śukra)而摄取你!你以Upayāma而被摄取——为“舒奇”(Śuci)而摄取你!你以Upayāma而被摄取——为“纳婆斯”(Nabhas)而摄取你!你以Upayāma而被摄取——为“纳婆斯雅”(Nabhasya)而摄取你!你以Upayāma而被摄取——为“伊舍”(Īṣa,食粮/滋养)而摄取你!你以Upayāma而被摄取——为“乌尔贾”(Ūrj,精力/养分)而摄取你!你以Upayāma而被摄取——为“萨哈斯”(Sahas,威力)而摄取你!你以Upayāma而被摄取——为“萨哈斯雅”(Sahasya)而摄取你!你以Upayāma而被摄取——为“塔帕斯”(Tapas,热力/苦行之力)而摄取你!你以Upayāma而被摄取——为“塔帕斯雅”(Tapasya)而摄取你!为“阿罕哈斯帕提”(Ahasaspati,昼之主)而摄取你。
उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । मध॑वे । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । माध॑वाय । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । शु॒क्राय॑ । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । शुच॑ये । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । नभ॑से । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । नभ॒स्या॒य । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । इ॒षे । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । ऊ॒र्जे । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । सह॑से । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । सह॒स्या॒य । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । तप॑से । त्वा॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । तप॒स्या॑य । त्वा॒ । अᳪहसः-प॒तये॑ । त्वा॒ ॥