स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्य॒ः पार्थि॑वेभ्यो॒ मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा सुभव॒ सूर्या॑य दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑ᳪशो॒ यस्मै॒ त्वेडे॒ तत्स॒त्यमु॑परि॒प्रुता॑ भ॒ङ्गेन॑ ह॒तोऽसौ॒ फट् प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा
svā́ṅkṛto ’si víśvebhya indríyebhyo divyébhyàḥ pārthivébhyo mánas tvāṣṭu svā́hā | tvā subhava sū́ryāya devébhyas tvā marīcípébhyo devā́ṃśo yásmai tvéḍe tát satyám upariprutā bhaṅgéna ható ’sau phaṭ | prāṇā́ya tvā vyānā́ya tvā ||
你已善作,适用于一切诸力——天界的与地界的;愿心(摩那斯)、造作者(Tvaṣṭṛ)塑成你——svāhā!你,吉祥之成就者(Subhava),奉献于苏利耶(Sūrya);你奉献于诸天;你奉献于饮光辉者(Mārīcipā)。我为其而呼请你的那一分神圣之分——此即真实。彼已被推覆,以裂击而毙——phaṭ!我奉你于气息(Prāṇa),我奉你于遍行气(Vyāna)。
सु-आङ्कृ॑तः । अ॒सि॒ । विश्वे॑भ्यः । इन्द्रि॒येभ्यः॑ । दि॒व्येभ्यः॑ । पार्थि॑वेभ्यः । मनः॑ । त्वा॒ष्टु॒ । स्वाहा॑ । त्वा । सु॒भव॑ । सूर्या॑य । दे॒वेभ्यः॑ । त्वा । मरीचि॒पेभ्यः॑ । देवा॑ᳪशः । यस्मै॑ । त्वा । ईडे॑ । तत् । स॒त्यम् । उ॒परि॒-प्रुता॑ । भ॒ङ्गेन॑ । ह॒तः । अ॒सौ॒ । फट् । प्रा॒णाय॑ । त्वा । व्या॒नाय॑ । त्वा ।