मन॑स्त॒ आ प्या॑यतां वाक्त॒ आ प्या॑यतां प्रा॒णस्त॒ आ प्या॑यतां चक्षु॑स्त॒ आ प्या॑यतां श्रोत्रं॑ त॒ आ प्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं तत्त॒ आ प्या॑यतां निष्ट्यायतां तत्ते॑ शुध्यतु शमहो॑भ्यः । ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः ।
mánas ta ā́ pyāyatāṃ vāk ta ā́ pyāyatāṃ prāṇás ta ā́ pyāyatāṃ cákṣus ta ā́ pyāyatāṃ śrótraṃ ta ā́ pyāyatām | yát te krūráṃ yád ā́sthitaṃ tát ta ā́ pyāyatāṃ niṣṭyāyatāṃ tát te śúdhyatu śám ahóbhyaḥ | óṣadhe trā́yasva svádhite mā́ enaṃ hiṃsīḥ |
愿你的心意得以滋养充盈;愿你的言语得以滋养充盈;愿你的气息(prāṇa)得以滋养充盈;愿你的眼目得以滋养充盈;愿你的耳听得以滋养充盈。凡你之中粗暴者,凡在你内沉结者——愿彼得以滋养充盈;愿彼被驱逐而出;愿彼为你的安宁而得净化,远离诸日之苦。噢药草(oṣadhi),护佑我;噢斧(svadhiti),勿伤害我。
मनः । ते । आ । प्या॒यताम् । वाक् । ते । आ । प्या॒यताम् । प्राणः । ते । आ । प्या॒यताम् । चक्षुः । ते । आ । प्या॒यताम् । श्रोत्रम् । ते । आ । प्या॒यताम् । यत् । ते । क्रूरम् । यत् । आस्थितम् । तत् । ते । आ । प्या॒यताम् । निष्ट्यायताम् । तत् । ते । शुध्यतु । शम् । अहोभ्यः । ओषधे । त्रायस्व । स्वधिते । मा । एनम् । हिंसीः ।