अहा॑नि॒ शं भव॑न्तु न॒: शᳪ रात्री॒: प्रति॑ धीयताम् । शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒: शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शं न॑ इन्द्रापू॒षणा॒ वाज॑सातौ॒ शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः
ahā́ni śáṃ bhavantu naḥ śáṃ rā́trīḥ práti dhīyatām | śáṃ na indrāgnī bhavatām ávobhiḥ śáṃ na indrā́varuṇā rātáhavyā | śáṃ na indrāpū́ṣaṇā vājásātau śám indrā́sómā suvitā́ya śáṃ yóḥ
愿白昼为我们带来吉祥;愿黑夜为我们的吉祥而安置得当。愿因陀罗与阿耆尼以护佑使我们吉祥;愿受供献者因陀罗与伐楼那使我们吉祥。愿因陀罗与普尚在赢得力量之战中使我们吉祥;愿因陀罗与苏摩为善行、为安乐而赐我们吉祥与福祉。
अहानि । शम् । भवन्तु । नः । शम् । रात्रीः । प्रति । धीयताम् । शम् । नः । इन्द्राग्नी । भवताम् । अवोभिः । शम् । नः । इन्द्रावरुणा । रातहव्या । शम् । नः । इन्द्रापूषणौ । वाजसातौ । शम् । इन्द्रासोमा । सुविताय । शम् । योः