प्रा॒त॒र्जितं॒ भग॑मु॒ग्रᳪ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑
prā́tar jítam bhágam ugráṃ huvemá vayaṃ putrám ádite r yó vidhártā | ā́dhraś cid yáṃ manyámānas turáś cid rājā́ cid yáṃ bhágaṃ bhakṣī́ty ā́ha
清晨,我们呼唤得胜而威猛的婆伽(Bhaga)——阿底提(Aditi)之子、维持者。即使贫乏之人,自以为与他相属;即使强者,乃至君王,也都被说成享用这位婆伽的福分。
प्रातर् । जितम् । भगम् । उग्रम् । हुवेम । वयम् । पुत्रम् । अदितेः । यः । विधर्ता । आध्रः । चित् । यम् । मन्यमानः । तुरः । चित् । राजा । चित् । यम् । भगम् । भक्षीति । आह ।