अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑२ अस्ति दे॒वता॒ विदा॑नः । न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध
anuttamā́ te maghavann ákīr nú ná tvā-vā́m̐² asti devátā vidā́naḥ | ná jā́yamāno náśate ná jā́to yā́ni kariṣyā́ kṛṇú hí prá-vṛddha
摩伽梵啊,你的威德至为无上;对知者而言,在诸天之中实无有能与你相比者。无论正在出生者,或已出生者,皆不能及你;你将行之事,愿你确实行之,噢力盛而圆满者。
अनुत्तमा । ते । मघवन् । न किः । नु । न । त्वा-वाँ । अस्ति । देवता । विदानः । न । जायमानः । नशते । न । जातः । यानि । करिष्याः । कृणु । हि । प्रवृद्ध ।