देव॑ सवित॒: प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य । दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु
devá savitaḥ prá suva yajñáṃ prá suva yajñápatim bhágāya | divyó gandharváḥ ketupū́ḥ kétaṃ naḥ punātu vācáspátir vā́jaṃ naḥ svadatu
神圣的萨维特里(Savitṛ)啊,请推动祭祀前行;请推动祭主(yajñapati)归于巴迦(Bhaga)。天界的乾闼婆(Gandharva),净化标志(ketu)者,愿为我们净化此标志;愿语主(Vācaspati)使我们的力量(vāja)甘美而可享。
देव॑ । सवितः । प्र । सु॑व । य॒ज्ञम् । प्र । सु॑व । य॒ज्ञ-प॑तिम् । भगा॑य । दि॒व्यः । ग॒न्ध॒र्वः । के॒तु-पूः । के॒तम् । नः । पु॒ना॒तु । वा॒चः-पतिः । वाज॑म् । नः । स्व॒द॒तु ।