अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ । सूर्यो॒ ज्योति॒र्ज्योति॒: सूर्य॒: स्वाहा॑ । अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । ज्योति॒: सूर्य॒: सूर्यो॒ ज्योति॒: स्वाहा॑ ॥
agnír jyótir jyótir agníḥ svāhā | sū́ryo jyótir jyótiḥ sū́ryaḥ svāhā | agnír várcō jyótir várcaḥ svāhā | sū́ryo várcō jyótir várcaḥ svāhā | jyótiḥ sū́ryaḥ sū́ryo jyótiḥ svāhā
阿耆尼(Agni)是光明;光明即阿耆尼——娑嚩诃(Svāhā)。 太阳是光明;光明即太阳——娑嚩诃。 阿耆尼是辉耀;光明是辉耀——娑嚩诃。 太阳是辉耀;光明是辉耀——娑嚩诃。 光明即太阳;太阳即光明——娑嚩诃。
अ॒ग्निः । ज्योति॒ः । ज्योति॒ः । अ॒ग्निः । स्वाहा॑ ।
सूर्यः । ज्योति॒ः । ज्योति॒ः । सूर्यः । स्वाहा॑ ।
अ॒ग्निः । वर्चः । ज्योति॒ः । वर्चः । स्वाहा॑ ।
सूर्यः । वर्चः । ज्योति॒ः । वर्चः । स्वाहा॑ ।
ज्योति॒ः । सूर्यः । सूर्यः । ज्योति॒ः । स्वाहा॑ ।