ब्राह्म॑णास॒: पित॑र॒: सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ । पू॒षा न॑: पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घश॑ᳪस ईशत
brā́hmaṇāsaḥ pítaraḥ somyā́saḥ śivé no dyā́vā-pṛthivī́ anehásā | pūṣā́ naḥ pātu duritā́d ṛtā-vṛ́dho rákṣā mā́kir no agha-śaṃsá īśata ||
愿婆罗门之祖灵——受苏摩祝福的父祖——以及天与地,对我们慈和无扰。愿普尚(Pūṣan),增益ṛta(宇宙正序)者,护我们远离罪恶;守护我们,使任何恶言之人不得支配我们。
ब्राह्म॑णासः । पि॒तरः॑ । सोम्या॑सः । शि॒वे । नः॑ । द्यावा॑-पृथि॒वी । अ॒ने॒हसा॑ । पू॒षा । नः॑ । पातु । दुरि॒तात् । ऋ॒त॒-आ॒वृ॒धः । रक्षा॑ । मा॒किः । नः॑ । अ॒घ-श॑ंसः । ई॒श॒त ।