आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती । ति॒स्रो दे॒वीर्ब॒र्हिरेदᳪ स्यो॒नᳪ सर॑स्वती॒ स्वप॑सः सदन्तु
ā́ no yajñáṃ bhā́ratī tū́yam etv íḍā mánuṣvad ihá cetáyantī | tísro devī́r bárhir idáṃ syónáṃ sárasvatī svápasaḥ sadantu
愿婆罗底(Bhāratī)迅速来到我们的祭祀;愿伊荼(Iḍā)依摩奴(Manu)之法,在此唤醒我们的仪轨。愿三位女神——在这安适的Barhis(祭草座)上——善工的萨拉斯瓦蒂(Sarasvatī)等,安坐就席。
आ । नः॑ । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इडा॑ । मनु॒ष्वत् । इ॒ह । चे॒तय॑न्ती । ति॒स्रः । दे॒वीः । ब॒र्हिः । इ॒दम् । स्यो॒नम् । सर॑स्वती । स्वप॑सः । स॒द॒न्तु॒ ।