होता॑ यक्ष॒त्पेश॑स्वतीस्ति॒स्रो दे॒वीर्हि॑र॒ण्ययी॒र्भार॑तीर्बृह॒तीर्म॒हीः पति॒मिन्द्रं॑ वयो॒धस॑म् । वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat-péśasvatīs tisró devī́r hiraṇyáyīr bhā́ratīr bṛhatī́r mahī́ḥ pátim índraṃ vayódhasam | virā́jaṃ chánda ihéndríyaṃ dhénuṃ gā́ṃ na váyo dádhad vyántv ā́jyasya hótar yája
愿祭司 Hotṛ 祭奉三位光辉的女神、金色的——Bhāratī 诸女神,广大而威严——并祭奉其主因陀罗(Indra),生命力之持养者。Virāj 为韵律,此处为雄力;如同乳牛,赐予生命之力,愿彼等涌流——噢 Hotṛ,以酥油行祭!
होता । यक्षत् । पेशस्वतीः । तिस्रः । देवीः । हिरण्ययीः । भारतीः । बृहतीः । महीः । पतिम् । इन्द्रम् । वयः-धसम् । विराजम् । छन्दः । इह । इन्द्रियम् । धेनुम् । गाम् । न । वयः । दधत् । व्यन्तु । आज्यस्य । होतः । यज ।