दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन् । अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑ᳪ रु॒द्रैर्य॒ज्ञᳪ सर॑स्व॒तीडा॑ वसु॑मती गृ॒हान् व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
dēvīs tisrás tisró dēvī́ḥ pátim índram avardhayan | áspṛkṣad bhā́ratī dívaṃ rudráir yajñáṃ sárasvatī́ḍā́ vasúmatī gṛhā́n vasuváne vasudhḗyasya vyàntu yája
三位女神,确乎三位女神,使主宰因陀罗(Indra)增长强盛。婆罗底(Bhāratī)触及苍天;与鲁陀罗众(Rudra)同在,娑罗萨伐底(Sarasvatī)触及祭祀;而富有财宝的伊罗(Ilā)触及家宅。于得财之处,为宝藏之安立,愿她们遍满(此祭仪);当行祭祀(yaj)。
दे॒वीः । ति॒स्रः । ति॒स्रः । दे॒वीः । पति॑म् । इन्द्र॑म् । अ॒व॒र्ध॒य॒न् । अ॒स्पृ॑क्षत् । भार॑ती । दिव॑म् । रु॒द्रैः । य॒ज्ञम् । सर॑स्वती । इडा॑ । वसु॑मती । गृ॒हान् । व॒सु॒वने॑ । वसु॒धेय॑स्य । व्य॒न्तु॒ । यज॑