अ॒ग्निरृषि॒: पव॑मान॒: पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम् । उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से
agnír ṛ́ṣiḥ pavámānaḥ pā́ñcajanyaḥ puróhitaḥ | tám īmahe mahāgáyam | upayā́magṛhīto ’sy agnáye tvā várcasa eṣá te yónir agnáye tvā várcase
阿耆尼(Agni)为仙圣(ṛṣi),为净化者(pavamāna),属五族之神(pāñcajanya),为前导祭司(purohita);我等敬拜彼——大居处者(mahāgaya)。汝以“优帕耶摩”(Upayāma)所摄受:奉献于阿耆尼者,赐光辉(varcas)之故!此为汝之胎藏(yoni):奉献于阿耆尼者,赐光辉之故!
अ॒ग्निः । ऋषिः॑ । पव॑मानः । पाञ्च॑जन्यः । पु॒रोहि॑तः । तम् । ई॑महे । म॒हा॒ग॒यम् । उ॒प॒या॒म-गृ॑हीतः । अ॑सि । अ॒ग्नये॑ । त्वा । वर्च॑से । ए॒षः । ते॒ । योनि॑ः । अ॒ग्नये॑ । त्वा । वर्च॑से