यथे॒मां वाचं॑ कल्या॒णीमा॒वदा॑नि॒ जने॑भ्यः । ब्र॒ह्म॒रा॒ज॒न्या॒भ्याᳪ शू॒द्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च । प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ काम॒: समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु
yáthēmā́ṃ vā́caṃ kalyāṇī́m āvadā́ni jánebhyaḥ | brahmarājanyā́bhyāṃ śūdrā́ya cā́ryāya ca svā́ya cā́raṇāya ca | priyó devā́nāṃ dákṣiṇāyai dātúr ihá bhūyāsam ayáṃ me kā́maḥ samṛ́dhyatām úpa mā́do namatu
愿我如是向众人宣说此吉祥之言——向婆罗门与刹帝利,向首陀罗与雅利安,向我族与异乡之人。愿我在此作为奉献祭资(达克希那)之施者,为诸天所喜爱。愿此我之愿望得以成就;愿欢悦向我俯伏。
यथा । इ॒माम् । वाचम् । कल्या॒णीम् । आ॒वदा॑नि । जने॑भ्यः । ब्र॒ह्म॒-रा॒ज॒न्या॒भ्याम् । शू॒द्राय॑ । च॒ । आर्या॑य । च॒ । स्वाय॑ । च॒ । अरणाय॑ । च॒ । प्रि॒यः । दे॒वानाम् । दक्षि॑णायै । दा॒तुः । इ॒ह । भू॑यासम् । अ॒यम् । मे॒ । कामः । समृ॑ध्यताम् । उप॑ । मा॒दः । न॑मतु