इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः । आ॒दि॒त्यैरिन्द्र॒: सग॑णो म॒रुद्भि॑र॒स्मभ्यं॑ भेष॒जा क॑रत् । य॒ज्ञं च॑ नस्त॒न्वं॒ च प्र॒जां चा॑दित्यै॒रिन्द्र॑: स॒ह सी॑षधाति
imā́ nu kaṃ bhúvanā sīṣadhā́m índraś ca víśve ca devā́ḥ | ādityáir índraḥ ságaṇo marúdbhir asmábhyaṃ bheṣajá karat | yajñáṃ ca nas tanvàṃ ca prajā́ṃ cādityáir índraḥ sahá sīṣadhāti
愿今此诸世界得以安置而有序——因陀罗与一切诸天。因陀罗与阿底提耶众同在,率其眷属,与摩卢特众同来,愿为我们成就医药与疗愈。又愿因陀罗与阿底提耶众同在,为我们安置并调和祭祀、我们的身躯与我们的子嗣。
इ॒माः । नु । क॒म् । भुव॑नानि । सी॒ष॒धा॒म् । इन्द्रः॑ । च॒ । विश्वे॑ । च॒ । दे॒वाः । आ॒दि॒त्यैः । इन्द्रः॑ । सग॑णः । म॒रुद्भिः॑ । अ॒स्मभ्य॑म् । भे॒ष॒जाः । क॒र॒त् । य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ । प्र॒जाम् । च॒ । आ॒दि॒त्यैः । इन्द्रः॑ । स॒ह । सी॒ष॒धा॒ति