तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् । अ॒र्य॒मणं॒ वरु॑ण॒ᳪ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्
tā́n pū́rvayā nivídā hūmahe vayáṃ bhágaṃ mitrám áditiṃ dákṣam asrídham | aryamáṇaṃ váruṇaṃ sómam aśvínā sárasvatī naḥ subhágā máyaskarat
我等以古老的召请(nivid)呼唤彼等来此——呼唤婆伽(Bhaga)、密特罗(Mitra)、阿底提(Aditi)、不失之达克沙(Dakṣa);阿梨耶曼(Aryaman)、伐楼那(Varuṇa)、苏摩(Soma)、阿湿毗那双神(Aśvins)。愿富饶的萨拉斯瓦蒂(Sarasvatī)为我等成就安康。
तान् । पू॒र्वया॑ । नि॒-विदा॑ । हू॒म॒हे । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् । अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒-भगा॑ । मयः॑-करत्