अ॒न्य॒वा॒पो॒ऽर्धमा॒साना॒मृश्यो॑ म॒यूर॑ः सुप॒र्णस्ते ग॑न्ध॒र्वाणा॑म॒पामु॒द्रो मा॒सां क॒श्यपो॑ रो॒हित्कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ते॑ऽप्स॒रसां॑ मृ॒त्यवे॑ऽसि॒तः
anyavā́po ’rdhamāsā́nām ṛ́śyo mayū́raḥ supárṇas te gandharvā́ṇām apā́mudro mā́sāṃ kaśyápo rohít kuṇḍṛṇā́cī goláttikā te ’psarásāṃ mṛ́tyave ’sitáḥ
阿尼亚瓦帕(anyavāpa)属半月期。羚羊(ṛśya)、孔雀、善翼者(suparṇa)——此等属乾闼婆(Gandharva)。阿帕穆德罗(apāmudra)属诸月:迦叶波(Kaśyapa)、罗希特(Rohit)、昆陀利那吉(Kuṇḍṛṇācī)、戈拉提迦(Golattikā)——此等属阿普萨罗(Apsaras)。为死神(Mṛtyu)者,是黑色之牺牲(asita)。
अन्यवापः । अर्धमासानाम् । ऋश्यः । मयूरः । सुपर्णः । ते । गन्धर्वाणाम् । अपामुद्रः । मासाम् । कश्यपः । रोहित् । कुण्डृणाची । गोलत्तिका । ते । अप्सरसाम् । मृत्यवे । असितः ।