सोमा॑य कुलु॒ङ्ग आ॑र॒ण्योऽजो न॑कु॒लः शका॒ ते पौ॒ष्णाः क्रो॒ष्टा मा॒योरिन्द्र॑स्य गौरमृ॒गः पि॒द्वो न्यङ्कु॑: कक्क॒टस्तेऽनु॑मत्यै प्रति॒श्रुत्का॑यै चक्रवा॒कः
somā́ya kuluṅgá āraṇyó’jó nakuláḥ śakā́ te pūṣṇā́ḥ kroṣṭā māyór índrasya gauramṛgáḥ pidvó nyaṅkúḥ kakkaṭás te’numátyai pratiśrutkā́yai cakravākáḥ
为苏摩(Soma),献库隆伽鸟(kuluṅga);野山羊;獴;沙迦鸟(śakā)——此等属普尚(Pūṣan)。豺;为玛尤(Māyu),献因陀罗(Indra)之高罗羚(gaura-antelope);皮德瓦(pidva);尼扬库(nyaṅku);蟹——此等。为阿努玛蒂(Anumati)与普拉提施鲁特迦(Pratiśrutkā),献恰克拉瓦迦鸟(cakravāka,赤雁)。
सोमा॑य । कुलु॒ङ्गः । आ॒र॒ण्यः । अ॒जः । न॑कु॒लः । शका॒ । ते । पौ॒ष्णाः । क्रो॒ष्टा । मा॒योर् । इन्द्र॑स्य । गौर-मृ॒गः । पि॒द्वः । न्यङ्कुः॑ । कक्क॒टः । ते । अनु॑मत्यै । प्रति॒श्रुत्का॑यै । चक्रवा॒कः