प्र॒जाप॑तये च वा॒यवे॑ च गोमृ॒गो वरु॑णायार॒ण्यो मे॒षो य॒माय॒ कृष्णो॑ मनुष्यरा॒जाय॑ म॒र्कट॑: शार्दू॒लाय॑ रो॒हिदृ॑ष॒भाय॑ गव॒यी क्षि॑प्रश्ये॒नाय॒ वर्ति॑का॒ नील॑ङ्गो॒: कृमि॑: समु॒द्राय॑ शिशु॒मारो॑ हि॒मव॑ते ह॒स्ती
prajā́pataye ca vāyáve ca gomṛgó varuṇā́yāraṇyó méṣo yamā́ya kṛ́ṣṇo manuṣya-rājā́ya markaṭáḥ śārdū́lāya rohíd-ṛṣabhā́ya gavayī́ kṣípr-śyenā́ya vártikā nīlā́ṅgoḥ kṛ́miḥ samudrā́ya śiśumā́ro himávate hastī́
为生主(Prajāpati)与伐由(Vāyu)执取gomṛga;为伐楼那(Varuṇa)执取野公羊;为阎摩(Yama)执取黑色(之牺牲);为人中王(Manuṣyarāja)执取猕猴;为虎(Śārdūla)执取(其牺牲);为赤色之公牛(Rohidṛṣabha)执取gavayī;为迅疾之鹰(Kṣipraśyena)执取鹌鹑;为蓝肢者(Nīlaṅga)执取虫;为大海(Samudra)执取食鱼兽(śiśumāra);为雪山(Himavat)执取大象。
प्र॒जाप॑तये । च । वा॒यवे॑ । च । गो-मृ॒गः । वरु॑णाय । आ॒र॒ण्यः । मे॒षः । य॒माय॑ । कृष्णः॑ । मनुष्य-रा॒जाय॑ । म॒र्कटः॑ । शार्दू॒लाय॑ । रो॒हिद्-ऋ॑ष॒भाय॑ । गव॒यी । क्षि॑प्र-श्ये॒नाय॑ । वर्ति॑का । नील॑ङ्गः । कृमिः॑ । समु॒द्राय॑ । शिशु॒मारः॑ । हि॒मव॑ते । ह॒स्ती