कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्या उ॑पध्व॒स्ताः सा॑वि॒त्रा व॑त्सत॒र्य॒: सारस्व॒त्य॒: श्या॒माः पौ॒ष्णाः पृश्न॑यो मारु॒ता ब॑हुरू॒पा वै॑श्वदे॒वा व॒शा द्या॑वापृथि॒वीया॑: ।। १ ४ ।। उ॒क्ताः स॑ञ्च॒रा एता॑ ऐन्द्रा॒ग्नाः कृ॒ष्णाः वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः
kṛṣṇágrīvā āgneyā́ babhrávaḥ sauḿyā upadhvastā́ḥ sāvitrá vatsataryàḥ sārasvatyàḥ śyāmā́ḥ pauṣṇā́ḥ pṛ́śnayo mārutā́ bahurūpā́ vaiśvadevā́ vaśā́ dyāvāpṛthivīyā́ḥ || uktā́ḥ sañcarā́ etā́ aindrāgnā́ḥ kṛṣṇā́ vāruṇā́ḥ pṛ́śnayo mārutā́ḥ kāyā́ stūparā́ḥ
黑颈者为阿耆尼(Agni)之祭;褐色者为苏摩(Soma)之祭;称为“upadhvasta”者为娑维特利(Savitṛ)之祭;称为“vatsatarya”者为萨拉斯瓦蒂(Sarasvatī)之祭;青黯色者为普尚(Pūṣan)之祭;斑点者为马鲁特(Maruts)之祭;多彩者为毗湿伐提婆(Viśvadeva,诸神)之祭;不孕之母牛(vaśā)为天地(Dyāvā-Pṛthivī)之祭。此等被宣说为“游行者”(sañcāra)之类:属因陀罗—阿耆尼(Indrāgnī)者为黑色;属伐楼那(Varuṇa)者为斑点;属马鲁特者为“kāyāstūpara”。
कृ॒ष्ण-ग्री॑वाः । आ॒ग्ने॒याः । ब॒भ्रवः॑ । सौ॒म्याः । उ॒प॒ध्व॒स्ताः । सा॒वि॒त्राः । व॒त्स॒त॒र्यः॑ । सा॒र॒स्व॒त्यः॑ । श्या॒माः । पौ॒ष्णाः । पृश्न॑यः । मा॒रु॒ताः । ब॒हु॒रू॒पाः । वै॒श्व॒दे॒वाः । व॒शाः । द्या॑वा-पृथि॒वीयाः । उ॒क्ताः । स॒ञ्च॒राः । ए॒ताः । ऐ॒न्द्रा॒ग्नाः । कृ॒ष्णाः । वा॒रु॒णाः । पृश्न॑यः । मा॒रु॒ताः । का॒याः । तू॒प॒राः