दे॒वा दे॒वानां॑ भि॒षजा॒ होता॑रा॒विन्द्र॑म॒श्विना॑ । व॒ष॒ट्का॒रै॒: सर॑स्वती॒ त्विषिं॒ न हृद॑ये म॒तिᳪ होतृ॑भ्यां दधुरिन्द्रि॒यं व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑
devā́ devā́nāṃ bhiṣájā hótārāv índram aśvínā | vaṣaṭkā́raiḥ sárasvatī tvíṣiṃ ná hṛ́daye matíṃ hótr̥bhyāṃ dadhur indríyaṃ vasuváne vasudhèyasyá vyantu yája
诸神之神、医者、二位祭司(Hotṛ)——阿湿毗尼双神为因陀罗(而来);以“vaṣaṭ”呼声,萨拉斯瓦蒂(相应)。犹如光辉在心中为思(mati),由二位Hotṛ他们赐予因陀罗之威力(indriya)。于求取财富(vasuvana)、积聚宝藏(vasudheya)之事,愿他们广布(此福);汝当献祭(yaja)!
दे॒वा । दे॒वानाम् । भि॒षजा॑ । होता॑रौ । इन्द्र॑म् । अ॒श्विना॑ । व॒ष॒ट्का॒रैः । सर॑स्वती । त्विषि॑म् । न । हृद॑ये । म॒तिम् । होतृ॑भ्याम् । दधुः । इ॒न्द्रि॒यम् । व॒सु॒वने॑ । व॒सु॒धेय॑स्य । व्यन्तु॑ । यज॑