होता॑ यक्षद॒ग्निᳪ स्वि॑ष्ट॒कृत॒मया॑ड॒ग्निर॒श्विनो॒श्छाग॑स्य ह॒विष॑: प्रि॒या धामा॒न्यया॒ट् सर॑स्वत्या मे॒षस्य॑ ह॒विष॑: प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य ऋष॒भस्य॑ ह॒विष॑: प्रि॒या धामा॒न्यया॑ड॒ग्नेः प्रि॒या धामा॒न्यया॒ट् सोम॑स्य प्रि॒या धामा॒न्यया॒डिन्द्र॑स्य सु॒त्राम्ण॑: प्रि॒या धामा॒न्यया॑ट् सवि॒तुः प्रि॒या धामा॒न्यया॒ड् वरु॑णस्य प्रि॒या धामा॒न्यया॒ड् वन॒स्पते॑: प्रि॒या पाथा॒ᳪस्यया॑ड् दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यक्ष॑द॒ग्नेर्होतु॑: प्रि॒या धामा॑नि॒ यक्ष॒त् स्वं म॑हि॒मान॒माय॑जता॒मेज्या॒ इष॑: कृ॒णोतु॒ सो अ॑ध्व॒रा जा॒तवे॑दा जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑
hótā yákṣad agníṃ sviṣṭakṛ́tam ayāṭ | agnír aśvinóś chā́gasya havíṣaḥ priyā́ dhā́māny ayāṭ sárasvatyā meṣásya havíṣaḥ priyā́ dhā́māny ayāṭ índrasya ṛṣabhásya havíṣaḥ priyā́ dhā́māny ayāṭ agnéḥ priyā́ dhā́māny ayāṭ sómasya priyā́ dhā́māny ayāṭ índrasya sutrā́mṇaḥ priyā́ dhā́māny ayāṭ savitúḥ priyā́ dhā́māny ayāṭ váruṇasya priyā́ dhā́māny ayāṭ vanaspáteḥ priyā́ pā́thāṃsy ayāṭ devā́nām ājyapā́nāṃ priyā́ dhā́māni | yákṣad agnér hotúḥ priyā́ dhā́māni yákṣat sváṃ mahimā́nam ā́yajatām ejyā́ íṣaḥ kṛṇótu sá adhvaró jātávedā juṣátāṃ havír hotar yája
愿祭司(Hotṛ)向阿耆尼(Agni)献祭——那成就善供(svīṣṭakṛt)者。阿耆尼已达阿湿毗那双神(Aśvin)所喜之居处,为山羊之供物;已达萨拉斯瓦蒂(Sarasvatī)所喜之居处,为公羊之供物;已达因陀罗(Indra)所喜之居处,为公牛之供物;已达阿耆尼所喜之居处;已达苏摩(Soma)所喜之居处;已达护佑坚固者因陀罗(Indra Sutrāman)所喜之居处;已达萨维特ṛ(Savitar)所喜之居处;已达伐楼那(Varuṇa)所喜之居处;已达林木之主(Vanaspati)所喜之道途。愿他献祭于诸天之酥油饮者(ājya-pāna),使其喜悦之居处得以成就;愿他献祭于阿耆尼——祭司之所喜居处;愿他献祭于自身之伟大威德。愿诸可祭者之祭(ejyā)成就供养之力(iṣ);愿此祭仪中,生知者(Jātavedas)欣受供物;祭司啊,献祭。
होता । यक्षत् । अग्निम् । स्विष्टकृतम् । अयाट् । अग्निः । अश्विनोः । छागस्य । हविषः । प्रियाः । धामानि । अयाट् । सरस्वत्याः । मेषस्य । हविषः । प्रियाः । धामानि । अयाट् । इन्द्रस्य । ऋषभस्य । हविषः । प्रियाः । धामानि । अयाट् । अग्नेः । प्रियाः । धामानि । अयाट् । सोमस्य । प्रियाः । धामानि । अयाट् । इन्द्रस्य । सुत्राम्णः । प्रियाः । धामानि । अयाट् । सवितुः । प्रियाः । धामानि । अयाट् । वरुणस्य । प्रियाः । धामानि । अयाट् । वनस्पतेः । प्रियाः । पाथांसि । अयाट् । देवानाम् । आज्यपानाम् । प्रियाः । धामानि । यक्षत् । अग्नेः । होतुः । प्रियाः । धामानि । यक्षत् । स्वम् । महिमानम् । आयजताम् । इज्याः । इषः । कृणोतु । सः । अध्वरः । जातवेदाः । जुषताम् । हविः । होतः । यज