होता॑ यक्षत् सु॒रेर॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग् यश॒: सुर॑या भेष॒जᳪ श्रि॒या न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat surérasam ṛṣabháṃ naryā́pasaṃ tváṣṭāram índram aśvinā bhiṣajáṃ ná sárasvatīm ójo ná jū́tir indríyaṃ vṛ́ko ná rábhāso bhiṣág yáśaḥ suráyā bheṣajáṃ śríyā ná mā́saraṃ páyaḥ sómaḥ parisrutā́ ghṛtáṃ mádhu vyàntu ā́jyasya hótar yája
愿祭司(Hotṛ)奉献祭祀:甘美之汁,公牛般的强者,具男子之功业者——特瓦什特ṛ(Tvaṣṭṛ)、因陀罗、阿湿毗那双神为医者,并萨拉斯瓦蒂;如同精力与突进之势;神力,如狼之迅猛;医者之名声;以苏罗酒(surā)为药;繁荣,如甘甜之饮。愿乳汁、善滤之苏摩(Soma)、酥油与蜂蜜,为祭油而涌流;祭司啊,行祭。
होता । यक्षत् । सु-रे-रसम् । ऋषभम् । नर्य-अपसम् । त्वष्टारम् । इन्द्रम् । अश्विनौ । भिषजम् । न । सरस्वतीम् । ओजः । न । जूतिः । इन्द्रियम् । वृकः । न । रभसः । भिषक् । यशः । सुरया । भेषजम् । श्रिया । न । मासरम् । पयः । सोमः । परि-स्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज ।