होता॑ यक्षत्सु॒पेश॑सो॒षे नक्तं॒ दिवा॒ऽश्विना॒ सम॑ञ्जाते॒ सर॑स्वत्या॒ त्विषि॒मिन्द्रे॒ न भे॑ष॒जᳪ श्ये॒नो न रज॑सा हृ॒दा श्रि॒या न मास॑रं॒ पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat supéśasoṣé náktaṃ divā́’śvinā sámañjāte sárasvatyā́ tvíṣim índre ná bheṣajáṃ śyéno ná rájasā hṛdā́ śríyā ná mā́saraṃ páyaḥ sómaḥ parisrutā́ ghṛtáṃ mádhu vyàntu ā́jyasya hótar yája
愿祭司Hotṛ奉献祭祀:形貌端美的阿湿毗那(Aśvin)双神,于黎明之际,于夜与昼,依仪涂抹而来;并与萨拉斯瓦蒂(Sarasvatī)一道,将光辉赐予因陀罗(Indra),如同疗愈之药——如鹰隼穿行于空际之尘(rajas)般迅疾,以心而达;又以吉祥福泽,如甘美之饮。愿乳汁、愿苏摩(Soma)——滤净而流——愿酥油与蜂蜜,为酥油供献而涌流;Hotṛ啊,行祭。
होता । यक्षत् । सु-पेशसः । ओषे इति । नक्तम् । दिवा । अश्विना । सम्-अञ्जाते । सरस्वत्याः । त्विषिम् । इन्द्रे । न । भेषजम् । श्येनः । न । रजसा । हृदा । श्रिया । न । मासरम् । पयः । सोमः । परि-स्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज ।