हे॒म॒न्तेन॑ ऋ॒तुना॑ दे॒वास्त्रि॑ण॒वे म॒रुत॑ स्तु॒ताः । बले॑न॒ शक्व॑री॒: सहो॑ ह॒विरिन्द्रे॒ वयो॑ दधुः
hemanténa ṛtúnā devā́s triṇavé marútaḥ stutā́ḥ | bálena śákvarīḥ sáho havír índre váyo dadhúḥ
以冬季为其时令,诸神——摩卢特(Marut)——在三十重颂(Stoma)中受赞。以力量,以沙克瓦丽(Śakvarī)诸颂,以威能,他们将供献——生命之精力(vayas)——安置于因陀罗(Indra)之中。
हे॒म॒न्तेन॑ । ऋ॒तुना॑ । दे॒वाः । त्रि॑ण॒वे । म॒रुतः॑ । स्तु॒ताः । बले॑न । शक्व॑रीः । सहः॑ । ह॒विः । इन्द्रे॑ । वयः॑ । दधुः