उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑
upayā́magṛhīto 'si | aśvíbhyāṃ tvā sárasvatyai tvéndrāya tvā sutrā́mṇe | eṣá te yóniḥ aśvíbhyāṃ tvā sárasvatyai tvéndrāya tvā sutrā́mṇe ||
以“优帕耶摩(Upayāma)”而摄取:奉献于阿湿毗那(Aśvins)者汝;奉献于萨拉斯瓦蒂(Sarasvatī)者汝;奉献于善护者因陀罗(Indra,Sutrāman)者汝。此为汝之胎藏(yoni):奉献于阿湿毗那者汝;奉献于萨拉斯瓦蒂者汝;奉献于善护者因陀罗者汝。
उ॒प॒या॒म-गृ॑हीतः । अ॒सि । अ॒श्वि-भ्याम् । त्वा । सर॑स्वत्यै । त्वा । इन्द्रा॑य । त्वा । सु॒-त्राम्णे॑ । ए॒षः । ते । योनि॑ः । अ॒श्वि-भ्याम् । त्वा । सर॑स्वत्यै । त्वा । इन्द्रा॑य । त्वा । सु॒-त्राम्णे॑ ।