नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितर॒ः शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितर॒ः पित॑रो॒ नमो॑ वो गृ॒हान्न॑ः पितरो दत्त स॒तो व॑ः पितरो देष्मै॒तद्व॑ः पितरो॒ वास॒ आध॑त्त
námo vaḥ pitaro rasā́ya námo vaḥ pitaraḥ śoṣā́ya námo vaḥ pitaro jīvā́ya námo vaḥ pitaraḥ svadhā́yai námo vaḥ pitaro ghorā́ya námo vaḥ pitaro manyáve námo vaḥ pitaraḥ pítaro námo vo gṛhā́n naḥ pitaro datta sató vaḥ pitaro deṣmaitád vaḥ pitaro vā́sa ā́dhatta
向你们致敬,祖灵啊,为了甘液;向你们致敬,祖灵啊,为了枯萎;向你们致敬,祖灵啊,为了生命;向你们致敬,祖灵啊,为了斯瓦达(Svadhā);向你们致敬,祖灵啊,为了可畏者;向你们致敬,祖灵啊,为了忿怒。向你们致敬,祖灵——诸位祖灵!向你们致敬,赐予我们家宅者的祖灵;祖灵啊,我们将此奉献于你们;祖灵啊,请受纳你们的居处。
नमः । वः । पितरः । रसāय । नमः । वः । पितरः । शोषāय । नमः । वः । पितरः । जीवāय । नमः । वः । पितरः । स्वधāयै । नमः । वः । पितरः । घोरāय । नमः । वः । पितरः । मन्यवे । नमः । वः । पितरः । पितरः । नमः । वः । गृहान् । नः । पितरः । दत्त । सतः । वः । पितरः । देष्म । एतत् । वः । पितरः । वासः । आधत्त