सर॑स्वती॒ योन्यां॒ गर्भ॑म॒न्तर॒श्विभ्यां॒ पत्नी॒ सुकृ॑तं बिभर्ति । अ॒पाᳪ रसे॑न॒ वरु॑णो॒ न साम्नेन्द्र॑ᳪ श्रि॒यै ज॒नय॑न्न॒प्सु राजा॑
sárasvatī yónyāṃ gárbham antár aśvíbhyāṃ pátnī súkṛtaṃ bibharti | apā́ṃ rásena váruṇo ná sāmnéndraṃ śríyai jánayann apsú rājā́
萨拉斯瓦蒂(Sarasvatī)于子宫之处怀持胚胎;作为阿湿毗那(Aśvin)二神之配偶,她承载善作之业。以诸水之汁液,如伐楼那(Varuṇa)以圣歌(sāman)一般;水中之王在水中为光辉而生因陀罗(Indra)。
सर॑स्वती । योन्यां॑ । गर्भ॑म् । अ॒न्तः । अ॒श्विभ्या॑म् । पत्नी॑ । सु-कृ॑तम् । बि॒भ॒र्ति । अ॒पाम् । रसे॑न । वरु॑णः । न । साम्ना॑ । इन्द्र॑म् । श्रि॒यै । ज॒नय॑न् । अ॒प्सु । राजा॑