दे॒वा य॒ज्ञम॑तन्वत भेष॒जं भि॒षजा॒ऽश्विना॑ । वा॒चा सर॑स्वती भि॒षगिन्द्रा॑येन्द्रि॒याणि॒ दध॑तः
devā́ yajñám atanvata bheṣajáṃ bhiṣájā ’śvínā | vācā́ sárasvatī bhiṣág índrāyendriyā́ṇi dádhataḥ
诸天铺展祭祀,以之为药;以阿湿毗那(Aśvin)为医者;以言语之萨拉斯瓦蒂(Sarasvatī)为疗者;他们为因陀罗(Indra)安置主宰之威能与诸根力。
देवाः । यज्ञम् । अतन्वत । भेषजम् । भिषजा । अश्विना । वाचा । सरस्वती । भिषक् । इन्द्राय । इन्द्रियाणि । दधतः ।