ऋ॒तं च॑ मेऽमृतं॑ च मे ऽय॒क्ष्मं च॒ मे ऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मे ऽभ॑यं च मे सु॒खं च॑ मे॒ शय॑नं च मे सू॒षाश्च॑ मे सु॒दिनं॑ च मे य॒ज्ञेन॑ कल्पन्ताम्
ṛtáṃ ca me ’mṛ́taṃ ca me ’yákṣmaṃ ca me ’nā́mayac ca me jīvā́tuś ca me dīrghāyutváṃ ca me ’namitrám ca me ’bháyaṃ ca me súkhaṃ ca me śáyanaṃ ca me sūṣā́ś ca me sudínaṃ ca me yajñéna kalpantām
愿正法(ṛta)归于我,愿不死(amṛta)归于我;愿无痨病归于我,愿无疾患归于我;愿生命归于我,愿长寿归于我;愿无仇敌归于我,愿无畏归于我;愿安乐归于我,愿安卧归于我;愿兴盛归于我,愿吉日归于我:愿这一切由祭祀(yajña)为我成就。
ऋतम् च मे । अमृतम् च मे । अयक्ष्मम् च मे । अनामयत् च मे । जीवातुः च मे । दीर्घायुत्वम् च मे । अनमित्रम् च मे । अभयम् च मे । सुखम् च मे । शयनम् च मे । सूषाः च मे । सुदिनम् च मे । यज्ञेन कल्पन्ताम् ।