पृ॒थि॒वी च॑ म॒ इन्द्र॑श्च॒ मेऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ समा॑श्च म॒ इन्द्र॑श्च मे॒ नक्ष॑त्राणि च म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
pṛthivī́ ca me índraś ca me ’ntárikṣaṃ ca me índraś ca me dyáuś ca me índraś ca me sámāś ca me índraś ca me nákṣatrāṇi ca me índraś ca me díśaś ca me índraś ca me yajñéna kalpantām
愿大地属于我,因陀罗亦属于我;愿中空属于我,因陀罗亦属于我;愿天界属于我,因陀罗亦属于我;愿诸时节(岁年)属于我,因陀罗亦属于我;愿群星属于我,因陀罗亦属于我;愿诸方属于我,因陀罗亦属于我:愿这一切由祭祀(yajña)为我如法调和、安置。
पृ॒थि॒वी । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । अ॒न्तरि॑क्षम् । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । द्यौः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । समाः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । नक्षत्राणि । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । दिशः । च॒ । मे॒ । इन्द्रः । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् ।