अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ सीसं॑ च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम्
aśmā ca me mṛttikā ca me girayaś ca me parvatāś ca me sikatāś ca me vanaspatayaś ca me hiraṇyaṃ ca me ’yaś ca me śyāmaṃ ca me lohaṃ ca me sīsaṃ ca me trapu ca me yajñena kalpantām
愿石与我同在,愿黏土与我同在;愿丘陵与我同在,愿群山与我同在;愿沙与我同在,愿林木之主(树木)与我同在;愿黄金与我同在,愿金属与我同在;愿黑铁与我同在,愿赤铁与我同在;愿铅与我同在,愿锡与我同在:愿这一切由祭祀(yajña)而成就、为我备办。
अश्मा । च । मे । मृत्तिका । च । मे । गिरयः । च । मे । पर्वताः । च । मे । सिकताः । च । मे । वनस्पतयः । च । मे । हिरण्यम् । च । मे । अयः । च । मे । श्यामम् । च । मे । लोहम् । च । मे । सीसम् । च । मे । त्रपु । च । मे । यज्ञेन । कल्पन्ताम् ।