नम॒: स्रुत्या॑य च॒ पथ्या॑य च॒ नम॒: काट्या॑य च॒ नीप्या॑य च॒ नम॒: कुल्या॑य च सर॒स्या॒य च॒ नमो॑ नादे॒याय॑ च वैश॒न्ताय॑ च
námaḥ srutyā̀ya ca pathyā̀ya ca námaḥ kāṭyā̀ya ca nīpyā̀ya ca námaḥ kulyā̀ya ca sarasyā̀ya ca námo nādeyā̀ya ca vaiśántāya ca
敬礼于掌管小径者,亦敬礼于掌管大道者;敬礼于掌管开辟之捷径者,亦敬礼于掌管低洼之地者;敬礼于掌管沟渠者,亦敬礼于掌管湖泊者;敬礼于掌管河滨水域者,亦敬礼于掌管聚落通道者。
नमः । स्रुत्याय । च । पथ्याय । च । नमः । काट्याय । च । नीप्याय । च । नमः । कुल्याय । च । सरस्याय । च । नमः । नादेयाय । च । वैशन्ताय । च