नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च
námaḥ sóbhyāya ca pratisaryā̀ya ca námo yāmyā́ya ca kṣemyā́ya ca námaḥ ślokyā́ya cāvasānyā̀ya ca náma urvaryā̀ya ca khalyā̀ya ca
敬礼于索婆耶(Sobhya,和悦吉祥者),亦敬礼于普拉提萨尔耶(Pratisarya,逆行相对者);敬礼于阎弥耶(Yamya,南方之主),亦敬礼于刹摩耶(Kṣemya,安宁护佑者);敬礼于施洛迦耶(Ślokya,可颂赞者),亦敬礼于阿婆萨南耶(Avasānya,终止归结者);敬礼于乌尔瓦里耶(Urvarīya,沃壤田畴者),亦敬礼于卡利耶(Khalya,打谷场之主)。
नमः । सोभ्याय । च । प्रतिसर्याय । च । नमः । याम्याय । च । क्षेम्याय । च । नमः । श्लोक्याय । च । अवसान्याय । च । नमः । उर्वर्याय । च । खल्याय । च