नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॒ गृत्से॑भ्यो॒ गृत्स॑पतिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नम॑:
námo gaṇébhyo gaṇápatibhyaś ca vo námo námo vrā́tebhyo vrā́tapatibhyaś ca vo námo námo gṛ́tsebhyo gṛ́tsapatibhyaś ca vo námo námo vírūpebhyo viśvárūpebhyaś ca vo námaḥ
向诸“群”(gaṇa)及诸群之主(gaṇapati)致敬,愿此敬礼归于汝!向诸“众队”(vrāta)及众队之主(vrātapati)致敬,愿此敬礼归于汝!向诸“贪攫者”(gṛtsa)及贪攫者之主(gṛtsapati)致敬,愿此敬礼归于汝!向诸“异形者”(virūpa)及诸“一切形相者”(viśvarūpa)致敬,愿此敬礼归于汝!
नमः । गणेभ्यः । गणपतिभ्यः । च । वः । नमः । नमः । व्रातेभ्यः । व्रातपतिभ्यः । च । वः । नमः । नमः । गृत्सेभ्यः । गृत्सपतिभ्यः । च । वः । नमः । नमः । विरूपेभ्यः । विश्वरूपेभ्यः । च । वः । नमः ।