नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॒ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमो॒ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑: श॒ष्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नम॑:
námo híraṇyabāhave senā́nye diśā́ṃ ca pátaye námo | námo vr̥kṣébhyó hárikeśebhyaḥ paśūnā́ṃ pátaye námo | námaḥ śaṣpíñjarāya tvíṣīmate pathīnā́ṃ pátaye námo | námo hárikeśāyopavītíne puṣṭā́nāṃ pátaye námaḥ
敬礼于金臂者,军队之统帅,诸方之主——敬礼,敬礼!敬礼于黄褐发之树木,畜群之主——敬礼,敬礼!敬礼于褐黄者、辉耀者、道路之主——敬礼,敬礼!敬礼于黄褐发者、佩持优婆毗多(upavīta)者、丰饶之主——敬礼!
नमः । हिरण्य-बाहवे । सेनान्ये । दिशाम् । च । पतये । नमः । नमः । वृक्षेभ्यः । हरि-केशेभ्यः । पशूनाम् । पतये । नमः । नमः । शष्पि-ञ्जराय । त्विषी-मते । पथीनाम् । पतये । नमः । नमः । हरि-केशाय । उपवीतिने । पुष्टानाम् । पतये । नमः