अधि॑पत्न्यसि बृह॒ती दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ बृह॒स्पति॑र्हेती॒नां प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रि॒ᳪशौ त्वा॒ स्तोमौ॑ पृथि॒व्याᳪ श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थायै स्तभ्नीताᳪ शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु
ādhīpatnyāsi br̥hatī digviśve te devā ādhīpatayo br̥haspatir hetīnām pratidhartā trinavatrayastriṁśau tvā stomau pr̥thivyāṁ śrayatāṁ vaiśvadevāgnimārute ukthe avyathāyai stabhnītāṁ śākvararaivate sāmani pratiṣṭhityā antarikṣe r̥ṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṁvidānā nākasya pr̥ṣṭhe svarge loke yajamānaṁ ca sādayantu
你是女主宰:广大之方;一切天神皆为你的主宰。布里哈斯帕提(Bṛhaspati)是诸飞射之器的抵御者。愿“三轮”(Trinava)与“三十三”(Trayastriṃśa)两种颂歌(Stoma)这两重支撑安住于大地。在“众神”(Vaiśvadeva)与“火与风暴诸神”(Agnimāruta)的优歌颂(Uktha)中,为免于战栗,愿你被支撑、被稳固;愿你凭“沙克瓦拉—莱瓦塔”(Śākvara-Raivata)之萨曼(Sāman)而得安立。愿中空(Antarikṣa)的诸仙人——在诸天神中最初所生者——以天之尺度与广大之量,使你扩展。愿持立者(Vidhartā)与作为你主宰者的此神,连同一切诸神同心协力,使你与祭主安坐于天穹之背、于天界之域。
अधि॑-पत्नि-असि । बृह॒ती । दिक् । विश्वे॑ । ते । दे॒वाः । अधि॑-पतयः । बृह॒स्पतिः॑ । हेती॒नाम् । प्रति॑-ध॒र्ता । त्रि॑णवत्-त्रयः-त्रि॒ᳪशौ । त्वा॒ । स्तोमौ॑ । पृथि॒व्याम् । श्र॑यताम् । वैश्वदेव-अग्नि-मारु॒ते । उ॒क्थे । अव्य॑थायै । स्तभ्नीताᳪ । शाक्वर-रैव॒ते । साम॑नी । प्रति॑-ष्ठित्या । अ॒न्तरि॑क्षे । ऋष॑यः । त्वा । प्रथम॒जाः । दे॒वेषु॑ । दि॒वः । मात्र॑या । वरि॒म्णा । प्र॑थन्तु । विध॒र्ता । च । अ॒यम् । अधि॑-पतिः । च । ते । त्वा॒ । सर्वे॑ । सम्-विदा॒नाः । नाक॑स्य । पृ॒ष्ठे । स्व॒र्गे । लो॒के । यज॑मानम् । च । सादयन्तु