स॒म्राड॑सि प्र॒तीची॒ दिगा॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नां प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोम॑: पृथि॒व्याᳪ श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थायै स्तभ्नातु वैरू॒पᳪसाम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु
samrā́ḍ asi pratī́cī díg ādityā́s te devā́ adhipátayo váruṇo hetīnā́ṃ pratidhartā́ saptadaśás tvā stómaḥ pṛthivyā́ṃ śrayatu marutvatī́yam ukthám avyáthāyai stabhnātu vairū́paṃ sā́ma pratíṣṭhityā antárikṣe ṛ́ṣayas tvā prathamajā́ devéṣu divó mā́trayā varímṇā prathantu vidhartā́ ca ayám adhipátiś ca te tvā sárve saṃvidānā́ nā́kasya pṛṣṭhé svargé loké yajamā́naṃ ca sādayantu
汝为普遍之王(Samrāṭ),为西方之方位;阿底提耶(Ādityas)为汝之诸神,伐楼那(Varuṇa)为护御飞矢之拒止者。十七颂(Saptadaśa)为汝之赞颂体系(stoma):愿其依止于大地;愿“具马鲁特者”之乌克塔(Marutvatīya-uktha)为无害而支撑之;愿“毗卢帕”之娑曼(Vairūpa Sāman)为安立而使之确立。于中空(antarikṣa),诸仙圣(ṛṣi)——诸神中之初生者——以天之尺度与广大使汝扩展;“维持者”(Vidhartṛ)与此“主宰”(adhipati)亦属汝。愿彼等一切同心协契,使汝与祭主(yajamāna)同坐于天穹之背、于胜天之界(svarga-loka)。
सम्राट् असि । प्रतीची दिक् । आदित्याः ते देवाः अधि-पतयः । वरुणः हेतीनाम् प्रति-धर्ता । सप्त-दशः त्वा स्तोमः । पृथि॒व्याम् श्रयतु । मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नातु । वैरूपम् साम प्रति-ष्ठित्या । अन्तरिक्षे ऋषयः त्वा प्रथम-जाः देवेषु । दिवः मात्रया वरिम्णा प्रथन्तु । विधर्ता च । अयम् अधि-पतिः च ते । त्वा सर्वे संविदानाः नाकस्य पृष्ठे स्वर्गे लोके यजमानम् च सादयन्तु ।