न॒वद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विᳪशत्यास्तुव॒तैक॑शपाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् त्रयो॑विᳪशत्यास्तुवत क्षु॒द्रा: प॒शवो॑ऽसृज्यन्त पू॒षाऽधि॑पतिरासी॒त् पञ्च॑विᳪशत्यास्तुवतार॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीत् स॒प्तवि॑ᳪशत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्या॒यँ॒स्त ए॒वाधि॑पतय आसन्
návadaśábhir astuvat śūdrā́ryāv asṛjyetām ahorātré ádhipatny āstām ekaviṁśatyā́stuvatáikaśapā́ḥ paśávo ’sṛjyanta váruṇo ’dhipatir āsīt trayoviṁśatyā́stuvat kṣudrā́ḥ paśávo ’sṛjyanta pūṣā́ ’dhipatir āsīt pañcaviṁśatyā́stuvatāraṇyā́ḥ paśávo ’sṛjyanta vāyúr adhipatir āsīt saptaviṁśatyā́stuvat dyā́vā-pṛthivī́ vyàitām vásavo rudrā́ ādityā́ anuvyāyáṁs ta evā́dhipataya āsan
以十九(颂)而赞颂:首陀罗与雅利安被创造;昼与夜为其主宰之配偶。以二十一(颂)而赞颂:单蹄之兽被创造;伐楼那为其主宰。以二十三(颂)而赞颂:细小之兽被创造;补善(Pūṣan)为其主宰。以二十五(颂)而赞颂:林野之兽被创造;伐由(Vāyu)为其主宰。以二十七(颂)而赞颂:天与地分离;婆苏、鲁陀罗、阿底提耶随之遍行——彼等即为诸主宰。
नवदशभिः । अस्तुवत । शूद्र-आर्यौ । असृज्येताम् । अहो-रात्रे । अधि-पत्नी । आस्ताम् । एकविंशत्या । अस्तुवत । एक-शपाः । पशवः । असृज्यन्त । वरुणः । अधि-पतिः । आसीत् । त्रयोविंशत्या । अस्तुवत । क्षुद्राः । पशवः । असृज्यन्त । पूषा । अधि-पतिः । आसीत् । पञ्चविंशत्या । अस्तुवत । अरण्याः । पशवः । असृज्यन्त । वायुः । अधि-पतिः । आसीत् । सप्तविंशत्या । अस्तुवत । द्यावा-पृथिवी । व्यैताम् । वसवः । रुद्राः । आदित्याः । अनुव्यायन् । ते । एव । अधि-पतयः । आसन्