आयु॑र्मे पाहि प्रा॒णं मे॑ पाह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ वाचं॑ मे पिन्व॒ मनो॑ मे जिन्वात्मानं॑ मे पाहि॒ ज्योति॑र्मे यच्छ
ā́yur me pāhi prāṇáṃ me pāhy apānám me pāhi vyānám me pāhi cákṣur me pāhi śrótraṃ me pāhi vā́caṃ me pinva máno me jinva ātmā́naṃ me pāhi jyótiḥ me yaccha
护佑我的寿命;护佑我的入息(prāṇa);护佑我的出息(apāna);护佑我遍行之气(vyāna)。护佑我的眼;护佑我的耳。使我的言语兴盛;使我的心意振奋。护佑我的自我(ātman);赐予我光明(jyotis)。
आयुः । मे । पाहि । प्राणम् । मे । पाहि । अपानम् । मे । पाहि । व्यानम् । मे । पाहि । चक्षुः । मे । पाहि । श्रोत्रम् । मे । पाहि । वाचम् । मे । पिन्व । मनः । मे । जिन्व । आत्मानम् । मे । पाहि । ज्योतिः । मे । यच्छ