यो अ॒ग्निर॒ग्नेरध्यजा॑यत॒ शोका॑त्पृथि॒व्या उ॒त वा॑ दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा ज॒जान॒ तम॑ग्ने॒ हेड॒: परि॑ ते वृणक्तु
yó agnír agnér ádhyajāyata śókāt pṛthivyā́ utá vā́ divás pári | yéna prajā́ viśvákarmā jajā́na tám agne héḍaḥ pári te vṛṇaktu
那位阿耆尼(Agni),由阿耆尼而生;或由炽热之焰而起,或自大地,或又从天界周回而来。凭他,毗湿伐羯摩(Viśvakarman)生育众生。愿那(神力),噢阿耆尼,为你驱除伤害之忿怒。
यः । अग्निः । अग्नेः । अधि-अजायत । शोकात् । पृथिव्याः । उत । वा । दिवः । परि । येन । प्रजाः । विश्व-कर्मा । जजान । तम् । अग्ने । हेडः । परि । ते । वृणक्तु