या वो॑ दे॒वाः सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुच॑: । इन्द्रा॑ग्नी॒ ताभि॒: सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते
yā vo devāḥ sū́rye rucó góṣv aśvéṣu yā́ rucáḥ | indrāgnī tā́bhiḥ sarvābhī rucáṃ no dhatta bṛ́haspate ||
诸神啊,你们在太阳中的光辉,牛群与马群中的光辉——噢因陀罗与阿耆尼,愿你们以这一切光辉赐予我等光辉;噢布里哈斯帕提。
याः । वः॒ । दे॒वाः । सू॒र्ये॒ । रुचः॑ । गोषु॑ । अश्वे॑षु । याः । रुचः॑ । इन्द्रा॑ग्नी । ताभिः॑ । सर्वा॑भिः । रुच॑म् । नः॒ । ध॒त्त॒ । बृह॒स्प॒ते॒ ।