सु॒प॒र्णो॒ऽसि ग॒रुत्माँ॑स्त्रि॒वृत्ते॒ शिरो॑ गाय॒त्रं चक्षु॑र्बृहद्रथन्त॒रे पक्षौ । स्तोम॑ आ॒त्मा छन्दा॒ᳪस्यङ्गा॑नि॒ यजूँ॑ᳪषि॒ नाम॑ । साम॑ ते त॒नूर्वा॑मदे॒व्यं य॑ज्ञाय॒ज्ञियं॒ पुच्छं॒ धिष्ण्या॑: श॒पाः । सु॒प॒र्णो॒ऽसि ग॒रुत्मा॒न्दिवं॑ गच्छ॒ स्व॑: पत
supárṇo’si garútmāṃs trivṛ́tte śíro gāyatráṃ cákṣur bṛhadrathantaráe pákṣau | stóma ātmā́ chándāṃsy áṅgāni yajū́ṃṣi nā́ma | sā́ma te tanū́r vāmadevyáṃ yajñāyajñíyaṃ púcchaṃ dhiṣṇyā́ḥ śápāḥ | supárṇo’si garútmān dívaṃ gaccha svàḥpat
你是善翼者,是具强劲羽翼的迦楼罗(Garutmān)。三重颂(Trivṛt)为你的头;伽耶特丽(Gāyatrī)为你的眼;《布里哈特》(Bṛhat)与《罗檀多罗》(Rathantara)为你的双翼。赞颂(Stoma)为你的自体;诸韵律(Chandas)为你的肢体;诸《夜柔》(Yajus)祭词为你的名。娑摩(Sāman)为你的身;《瓦摩提婆耶》(Vāmadevya)为你所有;《耶阇那耶阇尼耶》(Yajñāyajñiya)为你的尾;诸祭位之火座(Dhisṇya)为你的羽翎与支撑。你是善翼者、强翼的迦楼罗:往天界而去,归于自天(Svah)之主。
सु-पर्णः । असि । गरुत्मान् । त्रि-वृत्ते । शिरः । गायत्रम् । चक्षुः । बृहत्-रथन्तरे । पक्षौ । स्तोमः । आत्मा । छन्दांसि । अङ्गानि । यजूंषि । नाम । साम । ते । तनूः । वामदेव्यम् । यज्ञायज्ञियम् । पुच्छम् । धिष्ण्याः । शपाः । सु-पर्णः । असि । गरुत्मान् । दिवम् । गच्छ । स्वः-पत्