याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त । ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये॑
yā́ḥ sénā abhī́tvarīr āvyādhínīr ugáṇā uta | yé stenā́ yé ca táskarās tā́ṃs te agne ’pí dadhāmy āsyè
凡诸军旅,来袭者、伤害者、凶猛者;又凡盗贼与强盗——彼等,噢阿耆尼,我置于汝口中。
याः । सेना॑ः । अ॒भीत्व॑रीः । आ॒व्या॒धिनीः । उग॑णाः । उ॒त । ये । स्ते॒नाः । ये । च॒ । तस्क॑राः । तान् । ते॒ । अ॒ग्ने । अ॒पि । दधामि । आ॒स्ये॑