वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॑ पृथि॒व्य॒सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽस्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानायादि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वासि द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय
vasavas tvā kṛṇvantu gāyatreṇa chandasā’ṅgirasvat dhruvā’si pṛthivī’ si dhāraya mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātāni yajamānāya | rudrās tvā kṛṇvantu traiṣṭubhena chandasā’ṅgirasvat dhruvā’sy antarīkṣam asi dhāraya mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātāni yajamānāya | ādityās tvā kṛṇvantu jāgatena chandasā’ṅgirasvat dhruvā’si dyaur asi dhāraya mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātāni yajamānāya | viśve tvā devā vaiśvānarāḥ kṛṇvantv anuṣṭubhena chandasā’ṅgirasvat dhruvā’si diśo’ si dhāraya mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātāni yajamānāya ||
愿诸婆苏(Vasus)以伽耶特丽(Gāyatrī)韵律,依安吉罗萨(Aṅgirasa)之法塑成你:你是坚固的;你是大地。请在我之中支撑:子嗣、财富之增益、牧畜之主权、善勇之力,以及为祭主(yajamāna)而来的同族同生者。 愿诸鲁陀罗(Rudras)以特里什图布(Triṣṭubh)韵律,依安吉罗萨之法塑成你:你是坚固的;你是中空(antarikṣa)。请在我之中支撑:子嗣、财富之增益、牧畜之主权、善勇之力,以及为祭主而来的同族同生者。 愿诸阿底提耶(Ādityas)以阇伽提(Jagatī)韵律,依安吉罗萨之法塑成你:你是坚固的;你是天(dyauḥ)。请在我之中支撑:子嗣、财富之增益、牧畜之主权、善勇之力,以及为祭主而来的同族同生者。 愿一切天神(Viśve Devāḥ)、毗湿瓦那罗(Vaiśvānara)以阿努什图布(Anuṣṭubh)韵律,依安吉罗萨之法塑成你:你是坚固的;你是诸方。请在我之中支撑:子嗣、财富之增益、牧畜之主权、善勇之力,以及为祭主而来的同族同生者。
वसवः । त्वा । कृण्वन्तु । गायत्रेण । छन्दसा । अङ्गिरस्वत् । ध्रुवा । असि । पृथिवी । असि । धारय । मयि । प्रजाः । रायः-पोषम् । गौपत्यम् । सु-वीर्यम् । स-जातानि । यजमानाय । रुद्राः । त्वा । कृण्वन्तु । त्रैष्टुभेन । छन्दसा । अङ्गिरस्वत् । ध्रुवा । असि । अन्तरिक्षम् । असि । धारय । मयि । प्रजाः । रायः-पोषम् । गौपत्यम् । सु-वीर्यम् । स-जातानि । यजमानाय । आदित्याः । त्वा । कृण्वन्तु । जागतेन । छन्दसा । अङ्गिरस्वत् । ध्रुवा । असि । द्यौः । असि । धारय । मयि । प्रजाः । रायः-पोषम् । गौपत्यम् । सु-वीर्यम् । स-जातानि । यजमानाय । विश्वे । त्वा । देवाः । वैश्वानराः । कृण्वन्तु । अनुष्टुभेन । छन्दसा । अङ्गिरस्वत् । ध्रुवा । असि । दिशः । असि । धारय । मयि । प्रजाः । रायः-पोषम् । गौपत्यम् । सु-वीर्यम् । स-जातानि । यजमानाय